(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

05 उद्योगपर्व (196) Mahabarataham


॥ श्रीः ॥
5.181. अध्यायः 181
Mahabharata - Udyoga Parva - Chapter Topics
रमभीष्मसमरवर्णनम् ॥ 1 ॥


Mahabharata - Udyoga Parva - Chapter Text

भीष्म उवाच। 5-181-0x(3915)(38156)
समागतस्य रामेण पुनरेवातिदारुणम्।
अन्येद्युस्तुमुलं युद्धं तदा भरतसत्तम ॥ 5-181-1(38157)
ततो दिव्यास्त्रविच्छूरो दिव्यान्यस्त्राण्यनेकशःक ।
अयोजयत्स धर्मात्मा दिवसे दिवसे विभुः ॥ 5-181-2(38158)
तान्यहं तत्प्रतीघातैरस्त्रैरस्त्राणि भारत।
व्यधमं तुमुलेयुद्धेप्राणांस्त्यक्त्वासुदुस्त्यजान् ॥ 5-181-3(38159)
अस्त्रैरस्त्रेषु बहुधा हतेष्वेव च भारत ।
अक्रुध्यत महातेजास्त्यक्तप्राणः स संयुगे ॥ 5-181-4(38160)
ततः शक्तिं प्राहिणोद्धोररूपा-
मस्त्रे रुद्धे जामदग्न्यो महात्मा।
कालोत्सृष्टां प्रज्वलितामिवोल्कां
संदीप्ताग्रां तेजसा व्याप्य लोकम् ॥ 5-181-5(38161)
ततोऽहं तामिषुभिर्दीप्यमानां
समायान्तीमन्तकालार्कदीप्ताम् ।
छित्त्वा त्रिधा पातयामास भूमौ
ततो ववौ पवनः पुण्यगन्धिः ॥ 5-181-6(38162)
तस्यां छिन्नायां क्रोधदीप्तोऽथ रामः
शक्तीर्घोराः प्राहिणोद्द्वादशान्याः ।
तासां रूपं भारत नोत शक्यं
तेजस्वित्वाल्लाघवाच्चैव वक्तुम् ॥ 5-181-7(38163)
किन्त्वेवाहं विह्वलः संप्रदृश्य
दिग्भ्यः सर्वास्ता महोत्का इवाग्नेः ।
नानारूपास्तेजसोग्रेण दीप्ता
यथाऽऽदित्या द्वादश लोकसंक्षये ॥ 5-181-8(38164)
ततो जालं बाणमयं विवृत्तं
संदृश्य भित्त्वा शरजालेन राजन्।
द्वादशेषून्प्राहिणवं रणेऽहं
ततः शक्तीरप्यधमं घोररूपाः ॥ 5-181-9(38165)
ततो राजञ्जामदग्न्यो महात्मा
शक्तीर्घोरा व्याक्षिपद्धेमदण्डाः।
विचित्रिताः काञ्चनपट्टनंद्धा
यथा महोल्का ज्वलितास्तथा ताः ॥ 5-181-10(38166)
ताश्चाप्युग्राश्चर्मणा वारयित्वा
खङ्गेनाजौ पातयित्वा नरेन्द्र।
बाणैर्दिव्यैर्जामदग्न्यस्य सङ्ख्ये
दिव्यानश्वानभ्यवर्षं ससूतान् ॥ 5-181-11(38167)
निर्मिक्तानां पन्नगानां सरूपा
दृष्ट्वा शक्तीर्हेमचित्रा निकृत्ताः ।
प्रादुश्चक्रे दिव्यमस्त्रं महात्मा
क्रोधाविष्टो हैहयेशममाथी ॥ 5-181-12(38168)
ततः श्रेण्यः शलभानामिवोग्राः
समापेतुर्विशिखानां प्रदीप्ताः ।
समाचिनोच्चापि भृशं शरीरं
हयान्सूतं सरथं चैव मह्यम् ॥ 5-181-13(38169)
रथः शरैर्मे निचितः सर्वतोऽभू-
त्तथा वाहाः सारथिश्चैव राजन्।
युगं रथेषां च तथैव चक्रे
तथैवाक्षः शरकृत्तोऽथ भग्नः ॥ 5-181-14(38170)
ततस्तस्मिन्बाणवर्षे व्यतीते
शरौघेण प्रत्यवर्षं गुरुं तम्।
स विक्षतो मार्गणैर्ब्रह्मराशि-
र्देहादसक्तं मुमुचे भूरि रक्तम् ॥ 5-181-15(38171)
यथा रामो बाणजालाभितप्त-
स्तथैवाहं सुभृशं गाढविद्धः ।
ततो युद्धं व्यरमच्चापराह्णे
भानावस्तं प्रतियाते महीध्रम् ॥ ॥ 5-181-16(38172)

इति श्रीमन्महाभारते उद्योगपर्वणि अम्बोपाख्यानपर्वणि एकाशीत्यधिकशततमोऽध्यायः ॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.